|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.185. अध्यायः 185
Mahabharata - Vana Parva - Chapter Topics
पाण्डवानां पुनः कामय्कागमनं श्रुतवता कृष्णेन सत्यभामया सह तत्रागमनम् ॥ 1 ॥ तथा नारदमार्कण्डेययोरागमनं च ॥ 2 ॥ मार्कण्डेयेन श्रीकृष्णचोदनया पुराणकथाकथनारम्भः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-185-0x(2364)(23021)
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ 3-185-1(23022)
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ 3-185-2(23023)
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ॥ 3-185-3(23024)
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः।
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ॥ 3-185-4(23025)
बहुवत्सरजीवी च मार्कण्डेयो महातपाः।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ 3-185-5(23026)
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः।
शैब्यसुग्रीवयुक्तेन रथेन रथिनारः ॥ 3-185-6(23027)
मघवानिव पौलोम्या सहितः सत्यभामया।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ 3-185-7(23028)
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥ 3-185-8(23029)
पूजयामास धौम्यं च यमाभ्यामभिवादितः।
परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत् ॥ 3-185-9(23030)
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमः ॥ 3-185-10(23031)
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे।
पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया ॥ 3-185-11(23032)
ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ 3-185-12(23033)
कृष्णस्तु पार्थेन समेत्य विद्वान्
धनंजयेनासुरमर्दनेन।
बभौ यथा भूतपतिर्महात्मा
समेत्य साक्षाद्भगवान्गुहेन ॥ 3-185-13(23034)
ततः समस्तानि किरीटमाली
वनेषु वृत्तानि गदाग्रजाय।
उक्त्वा यथावत्पुनरन्वपृच्छ-
त्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ॥ 3-185-14(23035)
धौम्यं च कृष्णां च युधिष्ठिरं च
यमौ च भीमं च दशार्हसिंहः।
उवाच दिष्ट्या भवतां शिवेन
प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ 3-185-15(23036)
स पूजयित्वा मधुहा यथाव-
त्पार्थांश्च कृष्णां च पुरोहितं च।
उवाच राजानमभिप्रशंसन्
युधिष्ठिरं तेन सहोपविश्य ॥ 3-185-16(23037)
धर्मः परः पाण्डव राज्यलाभा-
त्तस्यादिमाहुस्तप एव राजन्।
सत्यार्जवाभ्यां चरता स्वधर्मं
जितस्त्वयाऽचं परश्च लोकः ॥ 3-185-17(23038)
अधीतमग्रे चरता व्रतानि
सम्यग्धनुर्वेदमवाप्य कृत्स्नम्।
क्षात्रेण धर्मेण वसूनि लब्ध्वा
सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ 3-185-18(23039)
न ग्राम्यधर्मेषु रतिस्तवास्ति
कामान्न किंचित्कुरुषे नरेन्द्र।
न चार्तलोभात्प्रजहासि धर्मं
तस्मात्प्रभावादसि धर्मराजः ॥ 3-185-19(23040)
दानं च सत्यं च तपश्च राजन्
क्षमा च शान्तिश्च दमो धृतिश्च।
अवाप्य राष्ट्राणि वसूनि भोगा-
नेषा परा पार्थ सदा रतिस्ते ॥ 3-185-20(23041)
हृतं च देशं कुरुजाङ्गलानां
कृष्णां सभायामशां च पश्यन्।
अपेतधर्मव्यवहारवृत्तं
सहेत तत्पाण्डव कस्त्वदन्यः ॥ 3-185-21(23042)
असंशयं सर्वसमृद्धकामः
क्षिप्रं प्रजाः पालयितासि सम्यक्।
अद्यैव तन्निग्रहणं कुरूणां
यदि प्रतिज्ञा भवतः समाप्ता ॥ 3-185-22(23043)
प्रोवाच कृष्णामपि याज्ञसेनीं
दशार्हभर्ता सहितः सुहृद्भिः।
कदिष्ट्या समग्राऽसि धनंजयेन
समागतेत्येवमुवाच कृष्णः ॥ 3-185-23(23044)
कृष्णे धनुर्वेदरतिप्रदाना-
स्तवात्मजास्ते शिशवः शुशीलाः।
सद्भिः सदैवाचरितं समाधिं
चरन्ति पुत्रास्तव याज्ञसेनि ॥ 3-185-24(23045)
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः
पित्रा च कृष्णे तव सोदरैश्च।
न यज्ञसेनस्य न मातुलानां
गृहेषु बाला रतिमाप्नुवन्ति ॥ 3-185-25(23046)
आनर्तमेवाभिमुखाः शिवेन
गत्वाधनुर्वेदरतिप्रधानाः।
तवात्मजा वृष्णिपुरं प्रविश्य
न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ 3-185-26(23047)
यथा त्वमेवार्हसि तेषु वृत्तं
प्रयोक्तुमार्या च यथैव कुन्ती।
तेष्वप्रमादेन तथा करोति
तथैव भूयश्च तथा सुभद्रा ॥ 3-185-27(23048)
यथाऽनिरुद्धस्य यथाऽभिमन्यो-
र्यथा सुनीथस्य यथैव भानोः।
तथा विनेता च गतिश्च कृष्णे
तवात्मजानामपि रौक्मिणेयः ॥ 3-185-28(23049)
गदासिचर्मग्रहणेषु शूरा-
नस्त्रेषु शिक्षासु रथाश्वयाने।
सम्यग्विनेता विनयेदतन्द्री-
स्तांश्चाभिमन्युं च सदा कुमारान् ॥ 3-185-29(23050)
स चापि सम्यक्प्रणिधाय शिक्षां
शस्त्राणइ चैषां विधिवत्प्रदाय।
तवात्मजानां च तथाऽभिमन्योः
पराक्रमैस्तुष्यति रौक्मिणेयः ॥ 3-185-30(23051)
यथा विहारं प्रसमीक्षमाणाः
प्रयान्ति पुत्रास्तव याज्ञसेनि।
एकैकमेषामनुयान्ति यत्र
रथाश्च यानानि च दन्तिनश्च ॥ 3-185-31(23052)
अथाब्रवीद्धर्मराजं तु कृष्णो
दशार्हयोधाः कुकुरान्धकाश्च।
एते निदेशं तव पालयन्त-
स्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ॥ 3-185-32(23053)
आवर्ततां कार्मुकवेगवाता
हलायुधप्रग्रणा मधूनाम्।
सेना तवार्थेषु नरेन्द्र यत्ता
ससादिपत्त्यश्वरथा सनागा ॥ 3-185-33(23054)
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः
सुयोधनः पापकृतां वरिष्ठः।
स सानुबन्धः ससुहद्गणश्च
भौमस्य सौबाधिपतेश्च मार्गम् ॥ 3-185-34(23055)
कामं तथा तिष्ठ नरेन्द्र तस्मि-
न्यथा कृतस्ते समयः सभायाम्।
दाशार्हयोधैस्तु हतारियोधं
प्रतीक्षतां नागपुरं प्रभग्नम् ॥ 3-185-35(23056)
व्यपेतमन्युर्व्यपनीतपाप्मा
विहृत् यत्रेच्छसि तत्र कामम्।
ततः समृद्धिप्रभवं विशोकः
प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥ 3-185-36(23057)
ततस्तदाज्ञाय मतं महात्मा
यथावदुक्तं पुरुषोत्तमेन।
प्रशस्य विप्रेक्ष्य च धर्मराजः
कृताञ्जलिः केशवमित्युवाच ॥ 3-185-37(23058)
असंशयं केशव पाण्डवानां
भवान्गतिस्त्वच्छरणा हि पार्थाः।
कालोदये तच्च ततश्च भूयः
कर्ता भवान्कर्म न संशयोस्ति ॥ 3-185-38(23059)
यथाप्रतिज्ञं विहृतश्च कालः
सर्वाः समा द्वादश निर्जनेषु।
अज्ञातचर्यां विधिवत्समाप्य
भवद्गताः केशव पाण्डवेयाः ॥ 3-185-39(23060)
एषैव बुद्धिर्जुषतां सदा त्वां
सत्ये स्थिताः केशव पाण्डवेयाः।
सदानधर्माः सजलाः सदाराः
सबान्धवास्त्वच्छरणा हि पार्थाः ॥ 3-185-40(23061)
वैशम्पायन उवाच। 3-185-41x(2365)
तथा वदतिवार्ष्णेये धर्मराजे च भारत।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ 3-185-41(23062)
अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः।
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ॥ 3-185-42(23063)
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्।
उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः ॥ 3-185-43(23064)
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ 3-185-44(23065)
शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः।
द्रौपदी सत्यभामा च तथाऽहंपरमं वचः ॥ 3-185-45(23066)
पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान्।
राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः ॥ 3-185-46(23067)
वैशम्पायन उवाच। 3-185-47x(2366)
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ 3-185-47(23068)
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः।
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ॥ 3-185-48(23069)
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ 3-185-49(23070)
उवाच चैनं कालज्ञं स्मयन्निव सनारदः।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ 3-185-50(23071)
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः।
क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति ॥ 3-185-51(23072)
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः।
मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ॥ 3-185-52(23073)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण़्डेयसमास्यापर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-185-13 भूतमतिः रुद्रः। गुहेन कार्तिकेयेन ॥ 3-185-19 कोपो न कश्चित्परुषो नरेन्द्रेति ध. पाठः ॥ 3-185-20 एषा दानादिरूपा सदारतिः नित्यंप्रीतिविषयः ॥ 3-185-21 राज्ये निविष्टः कुरुजांगलानां कृष्णां सभायां सभवानपश्यदिति ध. पाठः ॥ 3-185-26 आनर्तं द्वारकादेशम् ॥ 3-185-28 विनेता शिक्षयिता रौविमणेयः प्रद्युम्नः ॥ 3-185-33 मधूनां माथुराणाम्। हलायुधः प्रग्रहणो नियन्ता यस्या सा सेना। यत्ता सन्नद्धा ॥ 3-185-34 भौमस्य नरकासुरस्य सौभाधिपतेः सात्वस्य। सात्वस्य सौभाधिपतेश्च मार्गमिति ख. पाठः ॥ 3-185-42 पञ्चविंशकः वर्षैरिति शेषः ॥ 3-185-47 अवलोककः अवलोकनार्थी ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|